• ravilaa56@gmail.com
  • 9447296856

Chapter 3

3

कर्म योगः

अर्जुन उवाच

1. ज्यायसी चेत्‌ कर्मणः ते मता बुद्धिः जनार्दन ।

तत्‌ किम्‌ कर्मणि घोरे मां नियोजयसि केशव ॥

Superior thus to Karma

if knowledge be regarded, O Krishna,

why then in such terrible deeds,

do you engage me Oh Krishna ?

 

2. व्यामिश्रेण इव वाक्येन बुद्धिं मोहयसीव मे ।

तत्‌ एकम्‌ वद निश्चित्य येन श्रेयः अहम्‌ आप्नुयाम्‌ ॥

With ambiguous speech as this,

you confuse my intellect;

with certainty tell me just one –

the superior – which I may achieve.

 

श्री भगवान उवाच

3. लोके अस्मिन्‌ द्विविधा निष्ठा पुरा प्रोक्ता मया अ‍नघ ।

ज्ञान योगेन साङ्ख्यानाम्‌ कर्म योगेन योगिनाम्‌ ॥

In this world, the two types of practices,

that has been earlier stated by me, O Sinless One;

through the discipline of knowledge for the Sankhyas,

and through discipline of action for the Yogis.

 

4. न कर्मणाम्‌ अनारम्भात्‌ नैष्कर्म्यम्‌ पुरुषः अश्नुते ।

न च सन्यसनात्‌ एव सिद्धिं सम्‌-अधिगच्छति ॥

Not through non-commencement of action

does one attain a state of non-action;

nor through renunciation, either,

does one reach the state of accomplishment. 

 

5. न हि कश्चित्‌ क्षणम्‌ अपि जातु तिष्ठति अकर्मकृत्‌ ।

कार्यते हि अवशः कर्म सर्वः प्रकृतिजैः गुणैः ॥

It is not as if even for a moment, any time,

that one stays without performing action;

helplessly is he driven to action,

by compulsions of natural traits.

 

6. कर्म-इंद्रियाणि संयम्य य आस्ते मनसा स्मरन्‌ ।

इन्द्रियार्थान्‌ विमूढात्मा मिथ्याचारः सः उच्यते ॥

Having subdued the organs of action,

he that remains engaging his mind,

in sense gratifying objects,

such a fool is termed a hypocrite.

 

7. यः तु इन्द्रियाणि मनसा नियम्य आरभते अर्जुन ।

कर्मेन्द्रियैः कर्मयोगम्‌ असक्तः सः विशिष्यते ॥

But he who, his senses

by the mind subdued, O Arjuna, engages

his organs of action in disciplining with detachment,

such an one excels.

 

8. नियतम कुरुकर्म त्वम्‌ कर्मा ज्यायो हि अकर्मणः ।

शरीर-यात्रा अपि च ते न प्रसिद्धयेत्‌ अकर्मणः ॥

Perform your ordained task,

for, action is superior to inaction;

even the basic functioning of the body

is not possible through inaction.

 

9. यज्ञार्थात्‌ कर्मणः अन्यत्र लोके: अयम्‌ कर्मबन्धनः ।

तत्‌-अर्थम्‌ कर्म कौन्तेय मुक्त-सङ्गः समाचर ॥

As a sacrifice, the others perform,

they that are bound by the chores of this world;

be it just for that O Arjuna, but perform well,

freed from all the longings.

 

10. सहयज्ञाः प्रजाः सृष्ट्वा पुरा उवाच प्रजापति: ।

अनेन प्रसविष्यध्वम्‌ एष वः अस्तु इष्ट-काम-धुक्‌ ॥

With sacrifice was mankind created,

And the Creator at the genesis said,

“Through this may you all prosper,

May this fulfil all your desires…

 

11. देवान्‌ भावयत अनेन ते देवा भावयन्तु वः ।

परस्परम्‌ भावयन्तः श्रेयः परम्‌ अवाप्स्यथ ॥

With this nourish the Gods

That they may in turn nourish you;

Mutually thus nourishing one another

May you attain the highest good”.

 

12. इष्टन्‌ भोगान्‌ हि वः देवा दास्यन्ते यज्ञभाविताः ।

तैः दत्तान्‌ अप्रादाय एभ्यः यो भुङ्न्क्ते स्तेन  एव सः ॥

The desired enjoyment to the Gods

You shall render in the form of sacrifices;

By them, without any offerings, gifted –

One that consumes these is verily a thief.

 

13. यज्ञशिष्ट- आशिनः सन्तः मुच्यन्ते सर्व-किल्बिषैः ।

भुञ्जते ते तु अघम्‌ पापा ये पचन्ति आत्म-कारणात्‌ ॥

They that consume the remains of sacrifice,

such good men from all sins are freed;

but they, the sinners, that provide just for themselves

invite upon them nothing but sin.

 

14. अन्नात्‌ भवन्ति भूतानि पर्जन्यात्‌ अन्न-सम्भवः ।

यज्ञात्‌ भवति पर्जन्यः यज्ञः कर्म-समुद्भवः ॥

From food spring forth beings,

from rain food produced;

sacrifices bring forth rain, and,

from actions spring forth sacrifices.

 

15. कर्म ब्रह्म-उद्भवम्‌ विद्धि ब्रह्म अक्षर समुद्भवम्‌ ।

तस्मात्‌ सर्व-गतम्‌ ब्रह्म नित्यम्‌ यज्ञे प्रतिष्ठितम्‌ ॥

Action originates from Brahma,

Know, Brahma originated with the indestructible;

Therefore the all-pervading Brahma,

is ever present in sacrifices.

 

16. एवम्‌ प्रवर्तितम्‌ चक्रम्‌ न अनुवर्तयति इह यः ।

अघायुः इन्द्रिय-आरामः मोघम्‌ पार्थ सः जीवति ॥

Thus the cycle goes on,

and he that does not follow it,

the sinner, basking in the sensual,

in vain lives he, O Arjuna.

 

17. यः तु आत्म-रतिः एव स्यात्‌ आत्म-तृप्तः च मानवः ।

आत्मनि एव च संतुष्टः तस्य कार्यम्‌ न विद्यते ॥

But he who rejoicing in the self,

that man, fulfilled by the self,

content in the self alone,

for him cares are non-existent.

 

18. न एव तस्य कृतेन अर्थः न अकृतेन इह कश्चन ।

न च अस्य सर्व-भूतेषु कश्चित्‌ अर्थव्यपाश्रयः ॥

Not for him does make much sense

of what has been done or not done here;

nor for him on beings, ever,

a dependency for his needs.

 

19. तस्मात्‌ असक्तः सततम्‌ कार्यम्‌ कर्म समाचर ।

असक्तः हि आचरन्‌ कर्म परं आप्नोति पूरुषः ॥

Therefore with detachment always,

the deeds  that needs must be done, perform;

with detachment alone discharge thy chores,

for such a man attains the Supreme state.

 

20. कर्मणा एव हि संसिद्धिम्‌ आस्थिता: जनकादयः ।

लोक-सङ्ग्रहम्‌ एव अपि सम्पश्यन्‌ कर्तुम्‌ अर्हसि ॥

Through action alone perfection attained

by the likes of Janaka and others;

– welfare of the world alone in view –

you are bound to perform.

 

21. यत्‌-यत्‌ आचरति श्रेष्ठः तत्‌ तत्‌ एव इतरः जनः ।

सः यत प्रमाणम्‌ कुरुते लोकः तत्‌ अनुवर्तते ॥

What ever the great practice,

that alone does this world too;

whatever standards he sets,

that the world follows too.

 

22. न मे पार्थ अस्ति कर्तव्यम्‌ त्रिषु लोकेषु किञ्चन ।

न अनवाप्तम्‌ अवाप्तव्यम्‌ वर्त एव च कर्मणि ॥

Not for me, O Partha, does exist

duties in the three worlds any;

nor un-attained – that’s to be attained

through duty – remains.

 

23. यदि हि अहं न वर्तेयं जातु कर्मणि अतन्द्रितः ।

मम वर्तम्‌ अनुवर्तन्ते मनुष्याः पर्थ सर्वशः ॥

Were I not engaged

ever in action, perpetually;

my course would mankind

follow, O Arjuna, always.

 

24. उत्सीदेयुः इमे लोका न कुर्यां कर्म चेत अहम्‌ ।

सङ्करस्य च कर्ता स्याम्‌ उपहन्याम्‌ इमाः प्रजाः ॥

Perish will this world,

if I do not perform my duties;

contamination of the breed shall I engender,

and lead unto destruction these beings.

 

25. सक्ताः कर्मणि अविद्वांसः यथा कुर्वन्ति भारत ।

कुर्यात्‌ विद्वान्‌ तथा असक्तः चिकीर्षुः लोक-सङ‌ग्रहम्‌ ॥

Attached as the ignorant are,

in performance of duties, O Arjuna;

detached the learned perform

with zeal, for the welfare of the world.

 

26. न बुद्धिभेदम्‌ जनयेत अज्ञानाम्‌ कर्मसङ्गिनाम्‌ ।

जोषयेत सर्वकर्माणि विद्वान्‌ युक्तः समाचरन्‌ ॥

While not unsettling the ignorant,

who with attachment perform;

(they) enthuse them in all actions ,

the learned, the unified and the righteous.

 

27. प्रकृतेः क्रियमाणनि गुणैः कर्माणि सर्वशः ।

अहङकार विमूढत्मा कर्ता अहम इति मन्यते ॥

Through traits of Nature,

 are performed actions in all cases; 

(but) The egotist, the fool,

“The author am I” thus believes.

 

28. तत्त्ववित्‌ तु महाबाहो गुण-कर्म-विभागयोः ।

गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥

But, O Mighty armed !, knowing the truth,

of the division of traits and actions;

Traits in traits exist,

knowing thus, you are not attached.

 

29. प्रकृतेः गुण-सम्मूढाः सज्जन्ते गुणकर्मसु ।

तान्‌ अकृत्स्नविदः मन्दान्‌ कृत्स्नवित्‌ न विचालयेत्‌ ॥

Those confused about the traits of nature,

are attached to traits and action;

them, with inadequate understanding – the dull heads –

a man of perfect knowledge should not unsettle.

 

30. मयि सर्वाणि कर्माणि सन्न्यस्य अध्यात्म चेतसा ।

निराशीः निर्ममः भूत्वा युध्यस्व विगतज्वरः ॥

Towards me all actions surrendering,

 the one with consciousness placed in the Self;

having become one sans desires and egoism, 

fight, freed from these debilities.

 

31. ये मे मतम्‌ इदम्‌ नित्यम्‌ अनुतिष्ठन्ति मानवाः ।

श्रद्धावन्तः अनसूयन्तः मुच्यन्ते ते अपि कर्मभिः ॥

They, of mine these teachings,

regularly practice; such men,

of devoted mind and devoid of envy,

are also freed from their cares.

 

32. ये तु एतत्‌ अभ्यसूयन्तः न अनुतिष्ठन्ति मे मतम्‌ ।

सर्व-ज्ञान-विमूढान्‌ तान्‌ विद्धि नष्टान्‌ अचेतसः ॥

But they, the captious,

not practicing the teachings of mine,

confused of all knowledge; them,

know to be devoid and senseless.

 

33. सदृशम्‌ चेष्टते स्वस्याः प्रकृतेः ज्ञानवान्‌ अपि ।

प्रकृतिं यान्ति भूतानि निग्रहः किम करिष्यति ॥

In accordance with nature engage,

the healthy, the knowledgeable too;

In accordance with nature strive

all beings; what can defiance do ?

 

34. इंद्रियस्य इन्द्रियस्य-अर्थे राग-द्वेषौ व्यवस्थितौ ।

तयोः न वशम्‌ आगच्छ्त्‌ तौ हि अस्य पेरिपन्थिनौ ॥

Attachments and aversions of the senses,

in the sensuous do reside;

do not come under the sway of these two,

for they are their stumbling blocks along the way.

 

35. श्रेयान्‌ स्व-धर्मः विगुणः परधर्मात्‌ स्वनुष्ठितात्‌ ।

स्वधर्मे निधनम्‌ श्रेयः परधर्मो भयावहः ॥

 Honourable is one’s own duty though devoid of merit   

than another’s well performed.

Death while in one’s duty is honourable,

another’s duty is terrifying.

 

अर्जुन उवाच  Arjuna uvacha :

36. अथ केनम्‌ प्रयुक्त: अयम्‌ पापम्‌ चरति पुरुषः ।

अनिच्छ्न्‌ अपि वार्ष्नेय बलात इव नियोजितः ॥

Then impelled by what,

does mankind commit such sins ?

Unpremeditated too, O Krishna !,

as if by a force driven.

 

श्री भगवान उवाच  Sri Bhagavan  uvacha :

37. काम एष क्रोध एष रजोगुण समुद्भवः ।

महाश्न: महापाप्मा विद्धि एनम्‌ इह वैरिणम्‌ ॥

This desire…, this anger,

spring forth from Rajo Guna;

Gluttonous and highly sinning,

know these to be Its foes;

 

38. धूमेन आव्रियते वह्नि: यथा आदर्शः मलेन च ।

यथा अल्बेन आव्रितः गर्भः तथा तेन इदम्‌ आव्रितम्‌ ॥

As the fire by smoke is veiled,

and the mirror by dirt;

as the fetus by the womb,

thus by that This.

 

39. आवृतं ज्ञानं एतेन ज्ञानिनः नित्य‌-वैरिणा ।

कामरूपेण कौन्तेय दुष्पूरेण अनलेन च ॥

Veiled is  wisdom by this –

the eternal foe of the wise.

In the form of desire O Arjuna !,

and by the fire of discontent.

 

40. इन्द्रियाणि मनः बुद्धिः अस्य अधिष्ठानम्‌ उच्यते ।

एतैः विमोहयति  एष ज्ञानम्‌ आवृत्य देहिनम्‌ ॥

The senses, the mind and intellect,

its seat said to be.

Through these this deludes knowledge,

veiling The Self.

 

41. तस्मात्‌ त्वम्‌ इन्द्रियाणि आदौ नियम्य भरतर्षभ ।

पाप्मानम्‌ प्रजहि हि एनम्‌ ज्ञान-विज्ञान-नाशनम्‌ ॥

Therefore You, Oh Arjuna !,

controlling firstly the senses;

eliminate this great sinner –

the destroyer of knowledge and wisdom.

 

42. इन्द्रियाणि पराणि आहुः इन्द्रियेभ्यः परं मनः ।

मनसः तु परा बुद्धिः यः बुद्धेः परतः तु सः ॥

The senses are said to be superior,

superior to the senses is the mind;

Superior to the mind is intellect,

but superior to any intellect is He.

 

43. एवम्‌ बुद्धेः परम्‌ बुद्ध्वा संस्तभ्य आत्मानम्‌ आत्मना ।

जहि शत्रुम्‌ महाबाहो कामरूपम्‌ दुरासदम्‌ ॥

Thus realizing the One that’s superior to the intellect,

subduing oneself to The Self,

destroy the enemy O Arjuna,

that’s in the form of desire and invincible too.

 

Om ! thus That Truth, pure and divine,

in the songs of the Upanishads,

on the science of Brahma,

on the applications of yoga,

in the dialogue between Krishna and Arjuna,

the third chapter entitled

इति कर्मयोगो नाम तृतिय: अध्यायः

“The yoga of Moral Duties”